|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.121. अध्यायः 121
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दण्डस्वरूपादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-121-0x(5666)(69533)
अयं पितामहेनोक्तो राजधर्मः सनातनः।
कीदृशश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्॥ 12-121-1(69534)
देवतानामृषीणां च पितॄणां च महात्मनाम्।
यक्षरक्षः पिशाचानां मर्त्यानां च विशेषतः॥ 12-121-2(69535)
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्।
सर्वस्यापि महातेजा दण्डः श्रेयानिति प्रभो॥ 12-121-3(69536)
इत्येतदुक्तं भवता दण्डे वै सचराचरम्।
पश्यतां लोक आयत्तं ससुरासुरमानुषम्।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ॥ 12-121-4(69537)
को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः।
किमात्मकः कथंभूतः कतिमूर्तिः कथं प्रभुः॥ 12-121-5(69538)
जागर्ति च कथं दण्डः प्रजासु विहितात्मकः।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्॥ 12-121-6(69539)
कश्च विज्ञायते पूर्वः को वरो दण्डसंज्ञितः।
किंसंस्थश्चाभवद्दण्डः का चास्य गतिरिष्यते॥ 12-121-7(69540)
भीष्म उवाच। 12-121-8x(5667)
शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः।
यस्मिन्हि सर्वमायत्तं स धर्म इति केवलः॥ 12-121-8(69541)
धर्मस्यार्थे महाराज व्यवहार इतीष्यते।
तस्य लोपः कथं न स्याल्लोकेष्विह महात्मनः॥ 12-121-9(69542)
इत्यर्थं व्यवाहरस्य व्यवहारत्वमिष्यते।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः॥ 12-121-10(69543)
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः॥ 12-121-11(69544)
यथोक्तमेतद्वचनं प्रागेव मनुना पुरा।
यन्मयोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्॥ 12-121-12(69545)
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः।
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते॥ 12-121-13(69546)
दण्डान्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः॥ 12-121-14(69547)
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः।
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्॥ 12-121-15(69548)
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः।
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरासदः॥ 12-121-16(69549)
असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः।
मुसलं परशुश्चक्रं प्रासदण्डर्ष्टितोमराः॥ 12-121-17(69550)
सर्वप्रहरणीयानि यानि यानीह कानिचित्।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान्॥ 12-121-18(69551)
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा।
घातयन्नभिधावंश्च दण्ड एव चरत्युत॥ 12-121-19(69552)
असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुरासदः।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः॥ 12-121-20(69553)
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्रवचनं परम्।
धर्मपालोऽक्षरो गोपः सत्यगो नित्यगो गृहः॥ 12-121-21(69554)
असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवंकरः।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर॥ 12-121-22(69555)
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः।
शश्वद्रुपं महद्बिभ्रन्महात्पुरुष उच्यते॥ 12-121-23(69556)
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः॥ 12-121-24(69557)
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ॥ 12-121-25(69558)
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः।
अप्रमादः प्रमादश्च हर्षशोकौ शमो दमः॥ 12-121-26(69559)
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये।
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषामृते॥ 12-121-27(69560)
अन्तश्चादिश्च मध्यं च कृतानां च प्रपञ्चनम्।
मदः प्रमोदो दर्पश्च दम्भो धैर्यं नयानयौ॥ 12-121-28(69561)
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ।
विनयश्च विसर्गश्च कालाकालौ च कौरव॥ 12-121-29(69562)
अनृतं चाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ॥ 12-121-30(69563)
तीक्ष्णता मृदुतात्युग्रमागमानागमौ तथा।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले॥ 12-121-31(69564)
असूया चानसूया च धर्माधर्मौ तथैव च।
अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह॥ 12-121-32(69565)
तेजः कर्माणि पाण्डित्यं वाक्शक्तिर्बुद्धितत्वता।
एवं दण्डस्य लोकेऽस्मिञ्जागर्ति बहुरूपता॥ 12-121-33(69566)
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्।
भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर॥ 12-121-34(69567)
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम्॥ 12-121-35(69568)
व्यवस्थापयते नित्यमिमं लोकं नरेश्वर।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते॥ 12-121-36(69569)
धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च।
बभूव यज्ञो देवेभ्यो यज्ञः प्रीणाति देवताः॥ 12-121-37(69570)
प्रीताश्च देवता लोकमिन्द्रे प्रतिददत्युत।
अत्रं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः॥ 12-121-38(69571)
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च॥ 12-121-39(69572)
एवंप्नयोजनश्चैव दण्डः क्षत्रियतां गतः।
रक्षप्रजाः स जागर्ति नित्यं स्ववहितोक्षरः॥ 12-121-40(69573)
ईश्वरः पुरुषः प्राणः सत्वं वृत्तं प्रजापतिः।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः॥ 12-121-41(69574)
अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च।
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः॥ 12-121-42(69575)
कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर॥ 12-121-43(69576)
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च।
देशिकाश्चादिकाश्चैव तदष्टाङ्गं बलं स्मृतम्॥ 12-121-44(69577)
अथ चाङ्गस्य युक्तस्य रथिनो हस्तियायिनः।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये॥ 12-121-45(69578)
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च॥ 12-121-46(69579)
सप्तप्रकृति चाष्टाङ्गं शरीरमिह तं विदुः।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च॥ 12-121-47(69580)
ईश्वरेण प्रसन्नेन कारणात्क्षत्रियस्य च।
दण्डो दत्तः सदा गोप्ता दण्डो हीदं सनातनम्॥ 12-121-48(69581)
राजा पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च॥ 12-121-49(69582)
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाविधः।
तस्याद्य सहितो दृष्टो भर्तृप्रत्ययलक्षणः॥ 12-121-50(69583)
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः॥ 12-121-51(69584)
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः।
ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च॥ 12-121-52(69585)
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः॥ 12-121-53(69586)
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः।
धर्मप्रत्यय उद्दिष्टो यश्च धर्मः कृतात्मभिः॥ 12-121-54(69587)
व्यवहारः प्रजागोप्ता ब्रह्मदृष्टो युधिष्ठिर।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः॥ 12-121-55(69588)
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः।
व्यवहारश्च दृष्टो यः स वेद इति नः श्रुतिः॥ 12-121-56(69589)
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः।
ब्रह्मा पितामहः पूर्वं भगवांश्च प्रजापतिः॥ 12-121-57(69590)
लोकानां स हि सर्वेषां ससुरासुररक्षसाम्।
स मनुष्योरगवतां कर्ता चैव स भूतकृत्॥ 12-121-58(69591)
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः।
तस्मादिदमवोचाम व्यवहारनिदर्शनम्॥ 12-121-59(69592)
माता पिता च भ्राता च भार्या चैव पुरोहितः।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति॥ ॥ 12-121-60(69593)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः॥ 121॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-121-11 प्रजारक्षकत्वाद्व्यवहार एव धर्मपदवाच्योऽपीत्याह सुप्रणीतेनेति॥ 12-121-12 ब्रह्मणएव वचनं मनुमुखाच्छ्रुतमित्यर्थः॥ 12-121-13 दण्डएव उक्तवचनाद्धर्मशब्देन व्यवहारशब्देन चोच्यत इत्यर्थः। प्राग्वचनं धर्मवचनम्॥ 12-121-16 एवं व्यवहाररूपिणो दण्डस्य रूपमुक्त्वा धर्माख्यदण्डरूपमाह। ताम्रास्यो मृगराजतनुच्छद इति। ताम्रो वह्निरेवाहनवनीयादिरास्यं यस्य स तथा। मृगराजः कृष्णमृगस्तत्संबन्धिचर्म तनुच्छदः शरीराच्छादकं प्रावरणमस्य। एतेन दीक्षाप्रधानो यज्ञ उक्तः। एतच्च सर्वेषां दानोपवासहोमादीनामुपलक्षणम्॥ 12-121-23 मुख्यं दण्डस्य रूपमाह दण्डो हीति॥ 12-121-24 तत्पत्न्या रूपमाह तथेति। दण्डेन सहिता नीतिर्दण्डनीतिः॥ 12-121-25 किंपरायणमित्यस्योत्तरं अर्थानर्थावित्यादि॥ 12-121-36 किमात्मकः कथंभूतः कथंमूर्तिरितिप्रश्नत्रयस्योत्तरमाह व्यवस्थापयतइति। लोकपालनात्मकः सत्यपक्षपाती ब्राह्मणमूर्तिस्वरूप इत्यर्थः॥ 12-121-37 दण्डस्य ब्राह्मणभूर्तित्वं विवृण्वन् कथं जागर्ति इत्यस्योत्तरमाह धर्मयुक्ता इत्यादिना। ब्राह्मणमूर्तिर्दण्डो यज्ञादिद्वारान्नसृष्टिहेतुतया भूतानि पालयन् जागर्तीति श्लोकत्रयार्थः॥ 12-121-42 अदददीश्वर इति शेषः। अस्मै राज्ञे। दण्डं दण्डनीतिम्। अतएवायं बलेन संयुक्तः पञ्चविध आत्मा यस्य स तथा। धर्मव्यवहारदण्डेश्वरजीवरूपेण पञ्चप्रकारात्मको राजा। बलं नथैश्च संयुक्तं सदा पञ्चविधात्मकमिति थ. द. पाठः॥ 12-121-43 बहुधनसहिता अमात्या बहुधनामात्याः। बलानि तु तेजओजः सह आख्यानि देहेन्द्रियबुद्धिसमार्थ्यानि। अष्टकैरष्टसंख्याकैरनन्तरश्लोके वक्ष्यमाणैर्हस्त्यादिभिराहार्यमार्जनीयम्। अन्यद्वलं कोशवृद्धिरूपम्॥ 12-121-45 अङ्गस्य सैन्यस्य युक्तस्य सन्नद्धस्य रथादिकं शरीरं विदुरिति तृतीयेनान्वयः। रसदाः वैद्याः। 12-121-46 प्राड्विवाकाः विवदमानयोर्द्वयोः प्रवृत्तिनिमित्तवेत्तारः॥ 12-121-47 दण्डं सैन्यम्। दण्डः प्रसिद्धः॥ 12-121-48 दण्डो दण्डादीनम्॥ 12-121-50 भर्तृप्रत्ययः भर्तारौ द्वौ विवदमानौ प्रत्ययः कारणं यस्य स तथा वादिप्रतिवादिभ्यां प्रवर्तितो व्यवहारः। तयोरन्यतरस्य प्रत्ययोऽभ्युपगमो लक्षणं यस्य स भर्तृप्रत्ययलक्षणः। अन्यतरपराजयादित्यर्थः। सहितो हितमिष्टं तेन युक्तः सहितः। अन्यतरजयावह इत्यर्थः॥ 12-121-51 वेदात्मा वेदोक्तो दोषः पारदार्यादिस्तन्निवृत्त्यर्थं परिषदं प्रतिगतश्चेत्तत्र प्रायश्चित्तात्मको वेदहेतुक एव दण्डः। मौलः कुलाचारप्रयुक्तो यो व्यवहारस्तत्रापि शास्त्रोक्तो दण्डः। तथाच शास्त्रविदामनुक्रमणं धर्मज्ञानां समयः प्रमाणं वेदाश्चेति॥ 12-121-52 तेषां त्रयाणां दण्डानां मध्ये आद्यः क्षत्रियाधीन इत्याह। उक्त इति। नः अस्माभिः क्षत्रियैर्दण्डोऽपि ज्ञेयः तत्र प्रत्ययोऽपि ज्ञेयः॥ 12-121-53 अस्यापि वेदमूलत्वमाह दण्ड इति। विविधोऽवहारः अन्योन्यं परपक्षक्षेपेण स्वपक्षसाधनं व्यवहारस्तदात्मको न्यायः स यद्यपि दण्डः प्रत्ययदृष्टस्तथापि स व्यवहारपदार्थो मन्वादिभिः स्मृतोऽस्ति। अतः सोऽपि वैदिकप्रणीतत्वाद्वेदविषयात्मको वेदार्थगोचरोऽस्तीत्यर्थः॥ 12-121-54 उद्दिष्टो मम पारदार्यजेनाधर्मेण धर्मलोपो माभूदिति पश्चात्तापवत्युद्दिष्टः प्रायश्चित्तरूपो दण्डो धर्म एवेत्यर्थः॥ 12-121-60 यो राजा स्वधर्मेण तिष्ठति तस्य राज्ञ इति संबन्धः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|